श्री गणेशाय नमः
ॐ भद्रं कर्णेभि श्रुणुयाम देवः
भद्रं पश्येमाक्षभीर्यजत्रः
स्थिरैरंगैः स्तुष्टुवा स्थनुभिः
व्यशेम देवहितं यदायुः
ॐ स्वस्तिन इन्द्रो वृद्धश्रवः
स्वस्तिनः पुषा विश्ववेदः
स्वस्तिनः स्थाश्रौ वरिष्ठनेमिः
स्वस्तिनो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः
ॐ नमस्ते गणपतये
त्वमेव प्रत्यक्षं तत्त्वमसि
त्वमेव केवलं कर्तासि
त्वमेव केवलं धर्तासि
त्वमेव केवलं हर्तासि
त्वमेव सर्वं खल्विदं ब्रह्मासि
त्वं साक्षादात्मासि नित्यम्
ऋतं वच्मि सत्यं वच्मि
अव त्वं माम् अव वक्तारम् अव श्रोतारम्
अव दातारम् अव धातारम् अवानुचानमवशिष्यम्
अव पश्चात्ताद् अव पुरस्तात् अवोत्तरात्तात् अव दक्षिणात्तात्
अव चोद्ध्वात्तात् अवाधारात्तात् सर्वतो मां पाहि पाहि समंतात्
त्वं वाङ्मयस्त्वं चिन्मयः
त्वं आनन्दमयस्त्वं ब्रह्ममयः
त्वं सच्चिदानन्दाद्वितीयोऽसि
त्वं प्रत्यक्षं ब्रह्मासि
त्वं ज्ञानमयो विज्ञानमयोऽसि
सर्वं जगदिदं त्वत्तो जायते
सर्वं जगदिदं त्वत्तस्तिष्ठति
सर्वं जगदिदं त्वयि लयमेषति
सर्वं जगदिदं त्वयि प्रत्येति
त्वं भूमिरापोनलोनिलो नमः
त्वं चत्वारिवाक्पदानि
त्वं गुणत्रयातीतः त्वं अवस्थात्रयातीतः
त्वं देहत्रयातीतः त्वं कालत्रयातीतः
त्वं मूलाधारस्थितोऽसि नित्यम्
त्वं शक्तित्रयात्मकः
त्वं योगिनो ध्यायन्ति नित्यम्
त्वं ब्रह्मस्त्वं विष्णुस्त्वं
रुद्रस्त्वं इन्द्रस्त्वं
अग्निस्त्वं वायुस्त्वं
सूर्यस्त्वं चन्द्रमास्त्वं
ब्रह्म भूर्भुवः स्वरोम
गणादिपूर्वमुच्चार्य वर्णादि तदनन्तरम्
अनुस्वारः परतरः अर्धेन्दुलसितम्
तारेण रुद्धमेततवमनु स्वरूपम्
गकारः पूर्वरूपम् अकारो मध्यमरूपम्
अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादः सन्धानम्
संहिता सन्धिः सैषा गणेशविद्या गणकर्
षिः निजृद्गायत्री छन्दः गणपतिर्देवता
ॐ गं गणपतये नमः
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् । एकदन्तं
चतुरहस्तं पाशमंकुशधारिणम् । रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम्
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपु
ष्पैः सुपूजितम् । भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं
च सृष्टा दा प्रकृतिः पुरुषात्परम् ॥ २ ॥ एवं ध्यायति यो नित्यं स योगी
योगिनां वरः । नमो व्रातपतये नमो गणपतये नमः प्रमथपतये । नमस्तेस्तु लं
बोदराएकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः ॥ ३ ॥ एतदथर्
वशीर्षयोधिते स ब्रह्मभूयाय कल्पते । स सर्वतः सुखमेधते स सर्वनिर्विघ्
नोऽयम् । स पञ्चमहापापात्प्रमुच्यते सायमधियानुदिवसकृतं पापं नाशयति । प्
रातर्धियानोरात्रिकृतं पापं नाशयति । सा प्रातः प्रयुञ्जनोऽपापो भवति सर्
वत्राधियानोऽपविघ्नो भवति । धर्मार्थकाममोक्षं च विन्दति ॥ ४ ॥ इदमथर्वशी
र्षमशिष्याय न देयं । यो यदि मोहाद्यास्यति स पापीयान् भवति । सहस्रावर्
तनात् यं यं काममधीते तं तमनेन साधयेत् ॥ ५ ॥ अनेन गणपतिं अभिषिजाति स वा
ग्मी भवति । चतुर्ध्यां मनस्तं जपति स विद्यावान् भवति । इत्यथर्वर्णवाक्
यं ब्रह्माद्यावर्णं विद्यात् न बिभेति कदाचनेति ॥ ६ ॥ यो दूर्वाङ्कुरैर्
यजति स वै श्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति स मेधावान्
भवति । यो मोदकसहस्त्रेण यजति स वाञ्छितफलमवाप्नोति । यः साज्
यसमिदभिः यजति स सर्वं लभते स सर्वं लभते ॥ ७ ॥ अष्टौ ब्राह्मणा
न् सम्यग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्
रतिमासन्निधं वाजप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्
यते महादोषात्प्रमुच्यते । महापापात्प्रमुच्यते महाप्रत्यवायात्
प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति य एवं वेद इत्युपनि
षद् ॥ ८ ॥ ॐ सह नाववतु सह नो भुनक्तु सह वीर्यकर्वावहे । तेजस्वि
नावधितमस्तु मा विद्विषावहे ॥ ९ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ १०





